महालक्ष्मी स्तुतिः।धन और विजय देनेवाली।Maa laksmi।Shri Mahalakshmi Stuti by BalRam Pandey Sanskrit

Аватар автора
Эзотерическое объединение и взаимодействие с духовной энергией
महालक्ष्मी स्तुतिः।धन और विजय देनेवाली।Maa laksmi।Shri Mahalakshmi Stuti by BalRam Pandey Sanskrit with pure Sanskrit lyrics ?️? ॥ महालक्ष्मी स्तुतिः ॥ अगस्त उवाच - मातर्नमामि कमले कमलायताक्षि श्रीविष्णुहृत्कमलवासिनि विश्वमातः । क्षीरोदजे कमलकोमलगर्भगौरि लक्ष्मि प्रसीद सततं नमतां शरण्ये ॥1॥ त्वं श्रीरूपेन्द्रसदने मदनैकमात – र्ज्योत्स्नासि चन्द्रमसि चन्द्रमनोहरास्ये । सूर्ये प्रभासि च जगत्त्रितये प्रभासि लक्ष्मि प्रसीद सततं नमतां शरण्ये ॥2॥ त्वं जातवेदसि सदा दहनात्मशक्ति – र्वेधास्त्वया जगदिदं विविधं विदध्यात् । विश्वम्भरोऽपि बिभृयादखिलं भवत्या लक्ष्मि प्रसीद सततं नमतां शरण्ये ॥3॥ त्वत्त्यक्तमेतदमले हरते हरोऽपि त्वं पासि हंसि विदधासि परावरासि । ईड्यो बभूव हरिरप्यमले त्वदाप्त्या लक्ष्मि प्रसीद सततं नमतां शरण्ये ॥4॥ शूरः स एव स गुणी स बुधः स धन्यो मान्यः स एव कुलशीलकलाकलापैः । एकः शुचिः स हि पुमान् सकलेऽपि लोके यत्रापतेत्तव शुभे करुणाकटाक्षः ॥5॥ यस्मिन्वसेः क्षणमहो पुरुषे गजेऽश्वे स्त्रैणे तृणे सरसि देवकुले गृहेऽन्ने । रत्ने पतत्रिणि पशौ शयने धरायां सश्रीकमेव सकले तदिहास्ति नान्यत् ॥6॥ त्वत्स्पृष्टमेव सकलं शुचितां लभेत त्वत्त्यक्तमेव सकलं त्वशुचीह लक्ष्मि । त्वन्नाम यत्र च सुमङ्गलमेव तत्र श्रीविष्णुपत्नि कमले कमलालयेऽपि ॥7॥ लक्ष्मीं श्रियं च कमलां कमलालयां च पद्मां रमां नलिनयुग्मकरां च मां च । क्षीरोदजाममृतकुम्भकरामिरां च विष्णुप्रियामिति सदा जपतां क्व दुःखम् ॥8॥ ये पठिष्यन्ति च स्तोत्रं त्वद्भक्त्या मत्कृतं सदा । तेषां कदाचित् संतापो माऽस्तु माऽस्तु दरिद्रता ॥9॥ माऽस्तु चेष्टवियोगश्च माऽस्तु सम्पत्तिसंक्षयः । सर्वत्र विजयश्चाऽस्तु विच्छेदो माऽस्तु सन्ततेः ॥10॥...

0/0


0/0

0/0

0/0